|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.147. अध्यायः 147
Mahabharata - Adi Parva - Chapter Topics
कर्णपितुरधिरथस्य रङ्गप्रवेशः॥ 1 ॥ भीमेन कर्णस्याधिक्षेपः॥ 2 ॥ सर्वेषां रङ्गान्निष्क्रमणम्॥ 3 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-147-0x(874)(6667)
ततः स्रस्तोत्तरपटः सप्रस्वेदः सवेपथुः।
विवेशाधिरथो रङ्गं यष्टिप्राणो ह्वयन्निव॥ 1-147-1(6668)
तमालोक्य धनुस्त्यक्त्वा पितृगौरवयन्त्रितः।
कर्णोऽभिषेकार्द्रशिराः शिरसा समवन्दत॥ 1-147-2(6669)
ततः पादाववच्छाद्य पटान्तेन ससंभ्रमः।
पुत्रेति परिपूर्णार्थमब्रवीद्रथसारथिम्॥ 1-147-3(6670)
परिष्वज्य च तस्याथ मूर्धानं स्नेहविक्लवः।
अङ्गराज्याभिषेकार्द्रमश्रुभिः सिषिचे पुनः॥ 1-147-4(6671)
तं दृष्ट्वा सूतपुत्रोऽयमिति संचिन्त्य पाण्डवः।
भीमसेनस्तदा वाक्यमब्रवीत्प्रहसन्निव॥ 1-147-5(6672)
न त्वमर्हसि पार्थेन सूतपुत्र रणे वधम्।
कुलस्य सदृशस्तूर्णं प्रतोदो गृह्यतां त्वया॥ 1-147-6(6673)
अङ्गराज्यं च नार्हस्त्वमुपभोक्तुं नराधम।
श्वा हुताशसमीपस्थं पुरोडाशमिवाध्वरे॥ 1-147-7(6674)
वैशम्पायन उवाच। 1-147-8x(875)
एवमुक्तस्ततः कर्णः किंचित्प्रस्फुरिताधरः।
गगनस्थं विनिःश्वस्य दिवाकरमुदैक्षत॥ 1-147-8(6675)
ततो दुर्योधनः कोपादुत्पपात महाबलः।
भ्रातृपद्मवनात्तस्मान्मदोत्कट इव द्विपः॥ 1-147-9(6676)
सोऽब्रवीद्भीमकर्माणं भीमसेनमवस्थितम्।
वृकोदर न युक्तं ते वचनं वक्तुमीदृशम्॥ 1-147-10(6677)
क्षत्रियाणां बलं ज्यष्ठं योक्तव्यं क्षत्रबन्धुना।
शूराणां च नदीनां च प्रभवो दुर्विभावनः॥ 1-147-11(6678)
सलिलादुत्थितो वह्निर्येन व्याप्तं चराचरम्।
दधीचस्यास्थितो वज्रं कृतं दानवसूदनम्॥ 1-147-12(6679)
आग्नेयः कृत्तिकापुत्रो रौद्रो गाङ्गेय इत्यपि।
श्रूयते भगवान्देवः सर्वगुह्यमयो गुहः॥ 1-147-13(6680)
क्षत्रियेभ्यश्च ये जाता ब्राह्मणास्ते च ते श्रुताः।
विश्वामित्रप्रभृतयः प्राप्ता ब्रह्मत्वमव्ययम्॥ 1-147-14(6681)
आचार्यः कलशाज्जातो द्रोणः शस्त्रभृतां वरः।
गौतमस्यान्ववाये च शरस्तम्बाच्च गौतमः॥ 1-147-15(6682)
भवतां च यथा जन्म तदप्यागमितं मया।
सकुण्डलं सकवचं सर्वलक्षणलक्षितम्।
कथमादित्यसदृशं मृगी व्याघ्रं जनिष्यति॥ 1-147-16(6683)
पृथिवीराज्यमर्होऽयं नाङ्गराज्यं नरेश्वरः।
अनेन बाहुवीर्येण मया चाज्ञानुवर्तिना॥ 1-147-17(6684)
यस्य वा मनुजस्येदं न क्षान्तं मद्विचेष्टितम्।
रथमारुह्य पद्भ्यां स विनामयतु कार्मुकम्॥ 1-147-18(6685)
ततः सर्वस्य रङ्गस्य हाहाकारो महानभूत्।
साधुवादानुसंबद्धः सूर्यश्चास्तमुपागमत्॥ 1-147-19(6686)
ततो दुर्योधनः कर्णमालम्ब्याग्रकरे नृपः।
दीपिकाभिः कृतालोकस्तस्माद्रङ्गाद्विनिर्ययौ॥ 1-147-20(6687)
पाण्डवाश्च सहद्रोणाः सकृपाश्च विशांपते।
भीष्मेण सहिताः सर्वे ययुः स्वं स्वं निवेशनम्॥ 1-147-21(6688)
अर्जुनेति जनः कश्चित्कश्चित्कर्णेति भारत।
कश्चिद्दुर्योधनेत्येवं ब्रुवन्तः प्रस्थितास्तदा॥ 1-147-22(6689)
कुन्त्याश्च प्रत्यभिज्ञाय दिव्यलक्षणसूचितम्।
पुत्रमङ्गेश्वरं स्नेहाच्छन्ना प्रीतिरजायत॥ 1-147-23(6690)
दुर्योधनस्यापि तदा कर्णमासाद्य पार्थिव।
भयमर्जुनसंजातं क्षिप्रमन्तरधीयत॥ 1-147-24(6691)
स चापि वीरः कृतशस्त्रनिश्रमः
परेण साम्नाऽभ्यवदत्सुयोधनम्।
युधिष्ठिरस्याप्यभवत्तदा मति-
र्न कर्णतुल्योऽस्ति धनुर्धरः क्षितौ॥ ॥ 1-147-25(6692)
इति श्रीमन्महाभारते आदिप्रवणि संभवपर्वणि सप्तचत्वारिंशदधिकशततमोऽध्यायः॥ 147 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-147-18 यस्य येन न क्षान्तं न सोढम्॥ 1-147-25 निश्रमो नितरां श्रमः॥ सप्तचत्वारिंशदधिकशततमोऽध्यायः॥ 147 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|